निशान्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निशान्तम्, क्ली, (निशम्यते विश्रम्यतेऽस्मिन्निति । नि + शम + अधिकरणे क्तः ।) गृहम् । इत्य- मरः । २ । २ । ५ ॥ (यथा, रघुः । १६ । ४० । “तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ॥” निशाया अन्तो यत्र ।) उषा । (यथा, मनुः । ४ । ९९ । “न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥”) शान्ते, त्रि । इति मेदिनी । ते, ११९ ॥
