निशुम्भः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निशुम्भः, पुं, (नि + शुन्भ हिंसायाम् + भावे घञ् ।) वधः । इति हेमचन्द्रः । ३ । ३६३ ॥ दानवविशेषः । यथा, -- “कश्यपस्य दनुर्नाम भार्य्यासीद्द्विजसत्तम ! । तस्यास्त द्बौ सुतावास्तां सहस्राक्षाद्बलाधिकौ ॥ ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरासुरः । तृतीयो नमुचिर्नाम महाबलसमन्वितः ॥” इति वामनपुराणे ५२ अध्यायः ॥ (अयं हि भगवत्या निहतः । इति मार्कण्डेय- पुराणम् ॥ अपरोऽसुरविशेषः । यदुक्तं मार्क- ण्डेये । ९१ । ३६ -- ३७ । “वैवस्वतेऽन्तरे प्राप्तेऽष्टाविंशति मे युगे । शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥ नन्द्गोपगृहे जाता यशोदागर्भसम्भवा । ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निशुम्भः [niśumbhḥ], 1 Killing, slaughter.
उद्दर्पदुन्दुभिनिशुम्भपटु- प्रचण्ड Mv.5.61; सावष्टम्भनिशुम्भसंभ्रमनमत् Māl.5.22.
Breaking, bending (as of a bow); प्रागप्राप्तनिशुम्भशाम्भव- धनुर्द्वेधाक्रियाविर्भवत् Mv.2.33.
N. of a demon killed by Durgā. शक्तिः शुम्भनिशुम्भदैत्यदलनी Devī-stotram. -Comp. -मथनी -मर्दनी epithets of Durgā.
