सामग्री पर जाएँ

निश्चयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निश्चयः, पुं, (निश्चीयतेऽनेनेति । निर् + चि + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।) निःसंशयज्ञानम् । तत्पर्य्यायः । निर्णयः २ । इत्यमरः । १ । ५ । ३ ॥ निर्णयनम् ३ निचयः ४ । इति शब्दरत्नावली ॥ (यथा, देवी- भागवते । १ । १९ । ३५ । “देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता । तथा धनं गृहं राज्यं न ममेति च निश्चयः ॥”) “तदभावा प्रकारा धीस्तत्प्रकारा तु निर्णयः ॥” इति भाषापरिच्छेदः ॥ (अर्थालङ्कारविशेषः । तल्लक्षणादिकं यथा, साहित्यदर्पणे । १० । ५६ । “अन्यन्निषिध्य प्रकृतस्थापनं निश्चयः पुनः ॥” उदाहरणं यथा, -- “वदनमिदं न सरोजं नयने नेन्दीवरे एते । इह सविधे मुग्धदृशो मधुकर ! न मुधा परि- भ्राम्य ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निश्चयः [niścayḥ], 1 Ascertainment, investigation, inquiry.

A fixed opinion, settled or firm conviction, firm belief.

A determination, resolution, resolve; एष मे स्थिरो निश्चयः Mu.1.

Certainty, positiveness, positive conclusion.

Fixed intention, design, purpose, aim; कैकेयी क्रूरनिश्चया R.12.4; Ku.5.5.

N. of a figure in Rhetoric.

"https://sa.wiktionary.org/w/index.php?title=निश्चयः&oldid=372028" इत्यस्माद् प्रतिप्राप्तम्