निषधः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निषधः, पुं, पर्व्वतविशेषः । इत्यमरः । २ । ३ । ३ ॥ स तु इलावृतस्य दक्षिणे हरिवर्षस्य सीमा- पर्व्वतः । प्रागायतः । अयुतयोजनोत्सेधः । द्विसहसयोजनविस्तीर्णः । इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥ कठिनम् । देशविशेषः । (यथा, महाभारते । ३ । ५३ । ३ । “ब्रह्मण्यो वेदवित् शूरो निषधेषु महीपतिः ॥”) तद्देशीयराजः । इति मेदिनी । धे, ३३ ॥ निषादस्वरः । इति हेमचन्द्रः । ६ । ३७ ॥ (रामप्रपौत्त्रे सूर्य्यवंशीयनृपभेदे । यथा, हरि- वंशे । १५ । २६ । “रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः । अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥”)
