निषादः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निषादः, पुं, (निषद्यते ग्रामशेषसीमायाम् । यद्वा, निषीदति पापमत्र । नि + सद् + कर्म्मणि अधिकरणे वा घञ् ।) चण्डालः । इत्यमरः । २ । १० । २० ॥ वेणशरीरोद्भवजातिविशेषः । यथा, अग्निपुराणे । “मथ्यमाने ततो राज्ञस्तस्मिन्नूरौ प्रजज्ञिवान् । ह्रस्वोऽतिपरुषः कृष्णस्तद्भयात् प्राञ्जलिः स्थितः ॥ ते मन्त्रैर्व्विह्वलं दृष्ट्वा निषीदेत्यब्रुवंस्तदा । निषादवंशकर्त्ता स बभूव मुनिसत्तमाः ! ॥ धीवरानसृजन् वापि वेणकल्मषसम्भवान् । ये चान्ये विन्ध्यनिलयाः शवरा नाहलादयः ॥ अधर्म्मरुचयो ये च वित्तैनान् वेणसम्भवान् ॥” पारिभाषिकचण्डालो यथा, मार्कण्डेयपुराणे । “आशाकर्त्तुस्त्वदाता च दातुश्च प्रतिषेधकः । शरणागतं यस्त्यजति स चण्डालोऽधमो नरः ॥” धीवरविशेषः । इति मेदिनी । दे, ३४ ॥ (निषीदन्ति षड्जादयः स्वरा यत्र । नि + सद् + घञ् ।) सप्तस्वरान्तर्गतशेषस्वरः । स तु नारदमते हस्तिस्वरतुल्यस्वरः । अस्योच्चारणस्थानं लला- टम् । व्याकरणमते दन्तः । अयं वैश्यवर्णः । सर्व्वस्वराणां मध्ये उच्चः । अस्य जातिः सम्पूर्णा । अस्य कूटतानाः ५०४० । प्रत्येकतानम् ५६ समुदायेन २८२२४० भवन्ति । अस्य स्वरूपः गणेशतुल्यः । कृष्णश्वेतवर्णः । स्थानं पुष्कर- द्वीपः । देवता सूर्य्यः । वारः शनिः । समयः निशान्ते ८ दण्ड -- ३४ पलानि । अस्य श्रुतिः उग्रा शोभिनी च । मूर्च्छना मन्दरस्थाने सखा । मध्यस्थाने अहङ्कृता । तारस्थाने लोचना च । निषादवर्ज्जिता रागिणी आसावरी मल्लारी च । नादपुराणमते । निःसन्तानोऽयम् बीणायां धैवतावधिषड्जस्थानपर्य्यन्तं प्रथम- सप्तकतृतीयांशस्य शेषसमुदायबीणातन्त्रीनिषा- दस्थानं भवति । इति सङ्गीतशास्त्रम् ॥ * ॥ “षड्जादयः षडेतेऽत्र स्वराः सर्व्वे मनोहराः निषीदन्ति यतो लोके निषादस्तेन कथ्यते ॥ चतस्रः पञ्चमे षड्जे मध्यमे श्रुतयो मताः । ऋषभे धैवते तिस्रो द्वे गान्धारनिषादके ॥” इति सङ्गीतदामोदरः ॥ (अस्य असुरवंशे उत्पत्तिः । वैश्यो जातिः । विचित्रो वर्णः । पुष्करद्बीपे जन्म । ऋषि- स्तुम्बुरुः । सूर्य्यो देवता । जगती छन्दः । करुणे उपयोगित्वम् ॥ इति सङ्गीतदर्पणम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निषादः [niṣādḥ], 1 N. of one of the wild aboriginal tribes in India, such as hunters, fishermen &c.; a mountaineer; मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समा Rām.1.2.15; R.14. 52,7; U.2.5.
A man of a degraded tribe in general, an outcast, a Chāṇḍāla.
Especially, the son of a Brāhmaṇa by a Sūdra woman. cf. ब्राह्मणाद्वैश्य- कन्यायामम्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ Ms.1.8.
(In music) The first (more properly the last or seventh) note of the Hindu gamut; गीतकला- विन्यासमिव निषादानुगतम् K.31 (where it has sense 1 also).
N. of a Kalpa. -Comp. -वत् m. the निषाद note; Mb.12 184.39. -स्थपतिन्यायः The rule according to which when a compound expression is capable of being dissolved as a कर्मधारय or a तत्पुरुष, the former is to be preferred to the latter. This is discussed and established by जैमिनि and शबर in MS.6.1.51-52 in connection with the expression निषादस्थपति.
