सामग्री पर जाएँ

निषेधविधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निषेधविधि¦ पु॰ निषेधे अभावे विधिरिष्टसाधनताधीहेतुः। अभावे इष्टसाधनताबोधकवाक्ये यथा
“एकादश्यां न भु-ञ्जीतेत्यादौ” भोजनाभावे एव इष्टसाधनत्वं बोधयति न तुभोजने विध्यर्थेष्टसाधनत्वभावम्, अतो निषेधवाक्या-दस्य भेदः।
“अष्टम्यां मांसं नाश्नीयात्” इत्यादौ तुनिषेधे मांसजोजने अनिष्टसाधनत्वं बोधयति
“एकादश्यांन भुञ्जीत” इत्यादौ तु भोजनाभावे इष्टसाधनत्वमितिविधिस्वरूपे गदाधरः। एवं नेक्षेतोद्यन्तमादित्यमित्या-दावपि निषेधविधित्वमित्याकरे स्थितम्। अतएवएकादशीभोजनाभावस्य अभोजनसंकल्परूपस्य व्रतत्वम्तिथिखण्डविशेषनियमनं, च। निषेधत्वे कालमात्रापे-क्षतया तत्कालमात्रेण निवृत्तिः स्यात्
“निषेधस्तुनिवृत्त्यात्मा कालमात्रमपेक्षते” इति भट्टोक्तेः।

"https://sa.wiktionary.org/w/index.php?title=निषेधविधि&oldid=372946" इत्यस्माद् प्रतिप्राप्तम्