सामग्री पर जाएँ

निष्कः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निष्कः, पुं क्ली, (निश्चयेन कायति शोभते इति । निस् + कै + आतश्चेति कः ।) चत्वारः सुवर्णाः । चारि मोहर इति भाषा ॥ यथा, मनुः । ८ । १३७ । “धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥” साष्टशतसुवर्णः । हेम । उरोभूषणम् । (यथा, रामायणे । १ । ६ । ११ । “नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ॥”) पलम् । दीनारः । इत्यमरः । ३ । ३ । १४ ॥ अस्य टीका यथा । “शास्त्रीयषोडशमाषकपरिमितं स्वर्णं सुवर्णं तेषां सुवर्णानां अष्टाधिकशतम् । हेम स्वर्णमात्रम् । उरोभूषणं वक्षोऽलङ्कारः । पलं शास्त्रीयमानविशेषः । उरोभूषणं पलञ्च हेम्न एवेति केचित् । दीनारः सम्यग्व्यवहारार्थं मानवस्तु एषु निष्कः । केचित्तु दीनार इति पल इत्यस्य विशेषणम् । दीनारे पले लौकिक- पले न तु शास्त्रीये इत्याहुः ॥ स्मार्त्तास्तु द्वात्रिंशद्रक्तिकापरिमितं काञ्चनं दीनारः । तथाहि । ‘दीनारो रोपकैरष्टाविंशत्या परिकीर्त्तितः । सुवर्णंसप्ततितमो भागो रोपक उच्यते ॥’ इति विष्णुगुप्तः ॥ सुवर्णोऽशीतिरक्तिकापरिमितं काञ्चनं तस्य सप्ततितमो भागः सप्तमांशाधिकहेमरक्तिकायां रोपकः तदष्टाविंशत्या द्बात्रिंशद्रक्तिकापरिमितं हेम दीनार इति पर्य्यवस्यतीत्याहुः ।” इति भरतः ॥ * ॥ स्वर्णकर्षः । स्वर्णपलम् । इति हेमचन्द्रः ॥ कण्ठभूषा । इति जटाधरः ॥ माषकचतुष्टयम् । इति वैद्यकपरिभाषा ॥ (यथा, “स्याच्चतुर्म्माषकैः शाणः स निष्कष्टङ्क एव च ॥” इति पूर्ब्बखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् ॥) षोडशद्रम्यः । षोल काहन इति भाषा ॥ (यथा, लीलावत्याम् । २ । “वराटकानां दशकद्बयं यत् सा काकिनीं ताश्च पणश्चतस्रः । ते षोडशद्रम्य इहावगम्यो द्रम्यैस्तथा षोडशभिश्च निष्कः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निष्कः [niṣkḥ] कम् [kam], कम् 1 A golden coin (of different values, but generally taken to be equal to one Karṣa or Suvarṇa of 16 Māsas; 'वराटकानां दशकद्वयं यत् सा काकिणी ताश्च पणश्चतस्रः । ते षोडश द्रम्म इहावगम्यो द्रम्मैस्तथा षोडशभिश्च निष्कः ॥ मांसभेत्ता तु षष्णिष्कान् (दण्डः) Ms.8.284.

A weight of gold equal to 18 or 15 Suvarṇas q. v.

A golden ornament for the neck or the breast; हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् Ku.2.49; निष्ककण्ठीः (उपदेववरस्त्रियः) Bhāg.4.3.6.

Gold in general.

A golden vessel.

A die or dice; L. D. B.

Departure, going away; Nm. -ष्कः A Chāndāla.

"https://sa.wiktionary.org/w/index.php?title=निष्कः&oldid=373046" इत्यस्माद् प्रतिप्राप्तम्