निष्कलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्कलम्, त्रि, (निर्गता कला यस्मात् ।) कला- शून्यम् । (यथा, महाभारते । ३ । २०८ । ९ । “संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः । दृश्यन्ते निष्कलाः सप्त प्रहीणाः स्वस्वकर्म्मभिः ॥”) नष्टवीर्य्यम् । इति मेदिनी । ले, १०३ ॥ ब्रह्म । यथा, -- “चिन्मयस्याद्बितीयस्य निष्कलस्याशरीरिणः । उपासकानां कार्य्यार्थं ब्रह्मणो रूपकल्पना ॥” इत्येकादशीतत्त्वे जामदग्न्यवचनम् ॥ आधारे, पुं । इति शब्दचन्द्रिका ॥
