निष्क्रयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्क्रयः, पुं, (निष्क्रीयते विनिमीयतेऽनेनेति । निर + क्री + “एरच् ।” ३ । ३ । ५६ । इति करणे अच् ।) भृतिः । वेतनम् । इति हेमचन्द्रः । ६ । २६ ॥ बुद्धियोगः । सामर्थ्यम् । निर्गतिः । इति माध- टीकाधृतवैजयन्ती ॥ प्रत्युपकारः । विनिमयः । यथा, माघे । १ । ५० । “समुत्क्षिपन् यः पृथिवीभृताम्बरं वरप्रदानस्य चकार शूलिनः । त्रसत्तुषाराद्रिसुताससम्भ्रम- स्वयंग्रहाश्लेषसुखेन निष्क्रयम् ॥” (विक्रयः । यथा, मनुः । ९ । ४६ । “न निष्क्रयविसर्गाभ्यां भर्त्तुर्भार्य्या विमुच्यते ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्क्रयः [niṣkrayḥ], Redemption, ransom; ददौ दत्तं समुद्रेण पीतेने- वात्मनिष्क्रयम् R.15.55;2.55;5.22; Mu.6.2.
Reward; सम्यक्संपादितो वत्स भवद्भ्यां गुरुनिष्क्रयः Bhāg.1.45. 47.
Hire, wages.
Return, aquittance; त्रसत्तुषारा- द्रिसुताससंभ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम् Śi.1.5.
Exchange, barter.
Sale; न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते Ms.9. 46.
Purchase; cf. निष्क्रयो बुद्धियोगे स्यात् सामर्थ्ये निर्गतावपि; Vaijayantī.
