निष्ट्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्ट्यः, पुं, (वर्णाश्रमादिभ्यो निर्गतः । निस् + “अव्ययात् त्यप् ।” ४ । २ । १०४ । इत्यस्य “निसो गते ।” इति वार्त्तिकोक्त्या त्यप् । “ह्रस्वात्तादौ तद्धिते ।” ८ । ३ । १०१ । इति षत्वम् ।) म्लेच्छजातिविशेषः । इति हेमचन्द्रः । ५ । ५९८ ॥ (पुत्त्रादिः । इति महीधरः । यथा, वाजसनेयसंहितायाम् । ५ । २३ । “यं मे निष्ट्यो यममात्यो निचखान ॥” “ष्ट्यै स्त्यै शब्दसंघातयोः । नितरां स्त्यायति संघातरूपेण सह वर्त्तत इति निष्ट्यः । यद्वा, निर्गत्य शरीरात् स्त्यायति विस्तीर्णो भवतीति निष्ट्यः पुत्त्रादिः । यद्वा, निर्गतो वर्णाश्रमेभ्यो निष्ट्यश्चण्डालादिः । निसो गते इति वार्त्तिकेन निस उपसर्गाद्गतार्थे त्यप् इति काशिका- याम् ।” इति तत्र वेददीपः ॥)
