सामग्री पर जाएँ

निष्ठितम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निष्ठितम्, त्रि, (नि + स्था + क्तः ।) नितरां स्थितम् । यथा, भागवते । २ । ७ । ३६ । “देवद्विषां निगमवर्त्मनि निष्ठितानां पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः । लोकान् घ्नतां मतिविमोहमतिप्रलोभं वेशं विधाय बहुभाष्यत औपधर्म्म्यम् ॥” “देवद्विषां दैत्यानां निष्ठितानां नितरां स्थिता- नाम् ।” इति श्रीधरस्वामी ॥ (निष्ठा जाता- स्येति । तारकादित्वादितच् ।) निष्ठाविशिष्टः । निश्चयेन स्थितश्च ॥ (सम्यक्ज्ञाता । यथा, रामायणे । १ । १ । १४ । “रक्षिता स्वस्य धर्म्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्व्वेदे च निष्ठितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=निष्ठितम्&oldid=145155" इत्यस्माद् प्रतिप्राप्तम्