सामग्री पर जाएँ

निष्ठीवनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निष्ठीवनम्, क्ली, (नि + ष्ठिव + भावे ल्युट् । ष्ठिवु- सिव्योर्ल्युटि दीर्घो वेति स्वामी । पृषोदरादि- त्वादिति मुकुटः ।) श्लेष्मादीनां मुखेन वमनम् । छेप इति थुथु इति च भाषा ॥ तत्पर्य्यायः । निष्ठेवः २ निष्ठूतिः ३ निष्ठेवनम् ४ । इत्यमरः । ३ । २ । ६८ ॥ निष्ठेवा ५ । निष्ठेवम् ६ । इति तट्टीका ॥ (यथा, मार्कण्डेयपुराणे । ३४ । ७० । “क्षुतेऽवलीढे वान्ते च तथा निष्ठीवनादिषु । कुर्य्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=निष्ठीवनम्&oldid=145159" इत्यस्माद् प्रतिप्राप्तम्