निष्णातः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्णातः, त्रि, (नितरां स्नाति स्मेति । नि + स्ना + क्तः । “निनदीभ्यां स्नातेः कौशले ।” ८ । ३ । ८९ । इति षत्वम् ।) विज्ञः । निपुणः । इत्यमरः । ३ । १ । ४ ॥ (यथा, सुश्रुते सूत्रस्थाने तृतीयेऽध्याये । “यस्तु कर्म्मसु निष्णातो धार्ष्ट्याच्छात्रबहिष्कृतः । स सत्सु पूजां नाप्नोति वधञ्चार्हति राजतः ॥”) पारं गतः । यथा, भागवते १ । ४ । २१ । “वैशम्पायन एवैको निष्णातो यजुषामुत ॥”
