निष्पत्तिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्पत्तिः, स्त्री, (निर् + पद + क्तिन् ।) समाप्तिः । सिद्धिः । यथा, -- “क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्षते यदा तत्र करणत्वं तदा स्मृतम् ॥” इति रामतर्कवागीशधृतकारिका ॥ (नादस्यावस्थाविशेषः । यथा, हठयोगप्रदी- पिकायाम् । ४ । ६९ । “आरम्भश्च घटश्चैव तथा परिचयोऽपि च । निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम् ॥” तथा, तत्रैव । ४ । ७६ । “रुद्रग्रन्थिं यदा भित्वा सर्व्वपीठगतोऽनिलः । निष्पत्तौ वैणवः शब्दः क्वणद्वीणाक्वणो भवेत् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निष्पत्तिः [niṣpattiḥ], f.
Birth, production; शस्यनिष्पत्तिः.
Ripeness, maturity (परिपाक); कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीयते Ku.2.37.
Perfection, consummation; मोदके- नापि किं तेन निष्पत्तिर्यस्य सेवया Pt.1.271.
Completion, accomplishment, termination.
