सामग्री पर जाएँ

निसूदनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निसूदनम्, क्ली, (नि + सूद् + भावे ल्युट् ।) निहिं- सनम् । वधः । इत्यमरः । २ । ८ । ११३ ॥ (यथा, “प्रवासनं निसूदनं निहिंसनमिति वधपर्य्यायं प्रवासनशब्दं पठन्त्याभिधानिकाः ।” इति । ९ । २४२ मनुश्लोकटीकायां कुल्लूकभट्टः ॥ त्रि, नि + सूद + ल्युः । विनाशकः । यथा, रघुवंशे । ९ । ३ । “उभयमेव वदन्ति मनीषिणः समयंवर्षितया कृतकर्म्मणाम् । बलनिसूदनमर्थपतिञ्च तं श्रमनुदं मनुदण्डधरान्वयम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=निसूदनम्&oldid=145219" इत्यस्माद् प्रतिप्राप्तम्