सामग्री पर जाएँ

निसृष्टार्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निसृष्टार्थः, पुं, (निसृष्टो न्यस्तोऽर्थः प्रयोजनं यस्मिन्निति ।) दूतविशेषः । यथा, -- “निसृष्टार्थो मितार्थश्च तथा सन्देशहारकः । कार्य्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथा त्रिधा ॥” तल्लक्षणं यथा, -- “उभयोर्भावमुन्नीय स्वथं वदति चोत्तरम् । सुश्लिष्टं कुरुते कर्म्म निसृष्टार्थस्तु स स्मृतः ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥ धनायव्ययपालनादौ नियुक्तः । यथा बृहस्पतिः । “यः स्वामिना नियुक्तोऽपि धनायव्ययपालने । कषीदकृषिबाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥” इति व्यवहारतत्त्वम् ॥ पुरुषविशेषः । तस्य लक्षणं यथा, -- “धीरः स्थिरमतिः शूरः स्वामिकार्य्यविधायकः । स्वपौरुषप्रकाशी च निसृष्टार्थेः स उच्यते ॥” इति सङ्गीतदामोदरः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निसृष्टार्थ¦ पु॰
“उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम्। सन्दिष्टः कुरुते कर्म निसृ ष्टार्थस्तु स स्मृतः” सा॰ द॰इत्युक्ते

१ दासभेदे
“निसृष्टार्थोमितार्थश्च तथा सन्देशहा-रकः। कार्य्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः” सा॰ द॰
“यः स्वामिना नियुक्तोऽपि धनायव्ययपालने। कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः”

२ वृहस्यत्युक्ते
“धीरः स्थिरमतिः शूरः स्वामिकार्यविधायकः। [Page4123-b+ 38] स्वपौरुषप्रकाशी च निसृष्टार्थः स उच्यते” सङ्गीतदा॰च उक्ते

३ पुरुषे।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निसृष्टार्थ/ निसृष्टा mf( आ)n. intrusted with something , authorized Ma1lati1m.

निसृष्टार्थ/ निसृष्टा m. a charge d'affaires , agent , messenger Ka1m. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=निसृष्टार्थ&oldid=375342" इत्यस्माद् प्रतिप्राप्तम्