निसृष्टार्थः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निसृष्टार्थः, पुं, (निसृष्टो न्यस्तोऽर्थः प्रयोजनं यस्मिन्निति ।) दूतविशेषः । यथा, -- “निसृष्टार्थो मितार्थश्च तथा सन्देशहारकः । कार्य्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथा त्रिधा ॥” तल्लक्षणं यथा, -- “उभयोर्भावमुन्नीय स्वथं वदति चोत्तरम् । सुश्लिष्टं कुरुते कर्म्म निसृष्टार्थस्तु स स्मृतः ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥ धनायव्ययपालनादौ नियुक्तः । यथा बृहस्पतिः । “यः स्वामिना नियुक्तोऽपि धनायव्ययपालने । कषीदकृषिबाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥” इति व्यवहारतत्त्वम् ॥ पुरुषविशेषः । तस्य लक्षणं यथा, -- “धीरः स्थिरमतिः शूरः स्वामिकार्य्यविधायकः । स्वपौरुषप्रकाशी च निसृष्टार्थेः स उच्यते ॥” इति सङ्गीतदामोदरः ॥
