निस्तलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निस्तलम्, त्रि, (निरस्तं तलं स्वरूपमस्येति ।) वर्त्तुलम् । इत्यमरः । ३ । १ । ६९ ॥ (यथा, कुमारसम्भवे । १ । ४२ । “कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ॥”) चलम् । इति मेदिनी । ले, १०३ ॥ (नितरां तलम् ।) तलम् । इति हेमचन्द्रः ॥
