निस्तेजास्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निस्तेजाः, [स्] त्रि, (निर्गतं तेजो यस्मादिति ।) तेजोरहितः । यथा, -- “इदं कवचमज्ञात्वा कवचान्यं पठेत्तु यः । सर्व्वं तस्य वृथा देवि ! निस्तेजो न च सिद्धिदम् ॥” इति ब्रह्मजामलीयगायत्त्रीकवचधृतम् ॥ (यथा च देवीभागवते । २ । ८ । ११ । “कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिताः । धनं सर्व्वं गृहीतञ्च निस्तेजाश्चार्ज्जुनोऽभवत् ॥”)
