निस्त्रिंश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्त्रिंशः, पुं, (निर्गतस्त्रिंशद्भ्योऽङ्गुलिभ्य इति । निरादय इति समासः । “संख्यायास्तत्पुरुषस्य डज्वाच्यः ।” ५ । ४ । ११३ । इत्यस्य वार्त्तिकोक्त्या डच् ।) खड्गः । इत्यमरः । २ । ८ । ८९ ॥ (यथा, महाभारते । ४ । ४१ । २४ । “नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः ॥”) निर्द्दये, त्रि । इति मेदिनी । शे, २१ ॥ (यथा, अमरुशतके । ५ । “दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् । मन्युर्दुःसह एष यात्युपशमं नो शान्तवादैः स्फुटम् । हे निस्त्रंश ! विमुक्तकण्ठकरुणं तावत् सखी रोदितु ॥”) त्रिंशत्शून्यः । इति व्याकरणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्त्रिंश पुं।

खड्गः

समानार्थक:खड्ग,निस्त्रिंश,चन्द्रहास,असि,रिष्टि,कौक्षेयक,मण्डलाग्र,करवाल,कृपाण,सायक

2।8।89।1।3

तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः। कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्.।

अवयव : खड्गमुष्टिनिबन्धनम्,खड्गपिधानम्,खड्गफलम्

वृत्तिवान् : खड्गधारिः

वैशिष्ट्य : खड्गधारिः

 : विष्णुखड्गः, ह्रस्वखड्गः

पदार्थ-विभागः : उपकरणम्,आयुधम्

निस्त्रिंश पुं।

परद्रोहकारी

समानार्थक:नृशंस,घातुक,क्रूर,पाप,क्षुद्र,शार्वर,निस्त्रिंश

3।3।219।3।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्त्रिंश¦ पु॰ निर्गतस्त्रिंशतोऽङ्गुलिभ्यः डच् समा॰।

१ खड्गे अमरः त्रिंशदङ्गुल्यधिकस्यैव खड्गत्वात् ततोन्यूनत्वे छुरिका। तत्तुल्यहिंसकत्वात्

२ निर्दये त्रि॰ मेदि॰
“हे निस्त्रिंश (निर्दय) विमुक्तकण्ठकरुणं तावत् सखीरोदितु” अमरुशतकम्
“सधनुर्बद्धनिस्त्रिंशः पादचारीवपर्वतः” भा॰ आ॰

१३

६ अ॰।

३ मन्त्रभेदे
“नवाक्षरो ध्रुवयुतो मनुर्निस्त्रिंश ईरितः” तन्त्रसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्त्रिंश¦ mfn. (-शः-शा-शं) Merciless, unfeeling, unpitying. m. (-शः) A scimitar, a sacrificial knife. E. निर् forth, त्रिंशत् thirty, ड aff; being of thirty finger's length, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्त्रिंश/ निस्--त्रिंश mfn. more than thirty( pl. ) L.

निस्त्रिंश/ निस्--त्रिंश mfn. merciless , cruel Ka1v. Pan5c.

निस्त्रिंश/ निस्--त्रिंश m. a sword MBh. Katha1s. Sus3r. etc.

निस्त्रिंश/ निस्--त्रिंश m. a sacrificial knife W.

निस्त्रिंश/ निस्--त्रिंश m. a partic. stage in the retrograde motion of the planet Mars , Var. , (= शमुसलib. )

"https://sa.wiktionary.org/w/index.php?title=निस्त्रिंश&oldid=500698" इत्यस्माद् प्रतिप्राप्तम्