सामग्री पर जाएँ

निस्त्रिंशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निस्त्रिंशः, पुं, (निर्गतस्त्रिंशद्भ्योऽङ्गुलिभ्य इति । निरादय इति समासः । “संख्यायास्तत्पुरुषस्य डज्वाच्यः ।” ५ । ४ । ११३ । इत्यस्य वार्त्तिकोक्त्या डच् ।) खड्गः । इत्यमरः । २ । ८ । ८९ ॥ (यथा, महाभारते । ४ । ४१ । २४ । “नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः ॥”) निर्द्दये, त्रि । इति मेदिनी । शे, २१ ॥ (यथा, अमरुशतके । ५ । “दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् । मन्युर्दुःसह एष यात्युपशमं नो शान्तवादैः स्फुटम् । हे निस्त्रंश ! विमुक्तकण्ठकरुणं तावत् सखी रोदितु ॥”) त्रिंशत्शून्यः । इति व्याकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=निस्त्रिंशः&oldid=145246" इत्यस्माद् प्रतिप्राप्तम्