निस्रावः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निस्रावः, पुं, (निस्राव्यते इति । नि + स्रु + णिच् + घञ् ।) भक्तसमुद्भवमण्डम् । फेन इति माड इति च भाषा । तत्पर्य्यायः । मासरः २ आचामः ३ । इत्यमरः । २ । ९ । ४९ ॥ (नि + स्रु + घञ् । द्रवः । यथा, हरिवंशे । ९६ । ९ । “धातुनिस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥”)
