निहितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निहितम्, त्रि, (नि + धा + क्त । “दधातेर्हिः ।” ७ । ४ । ४२ । इति हिः ।) स्थापितम् । इति हलायुधः ॥ यथा, महाभारते । ३ । ३१२ । ११२ । “धर्म्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥”
