निह्नवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निह्नवः, पुं, (निह्रूयते सत्यवाक्यमनेनेति । नि + ह्न + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।) अपलापः । येन वचनं निह्नूयते सः । यथा, धारयन्नेव न धारयामीति । इत्यमरभरतौ ॥ तत्पर्य्यायः । निह्रुतिः २ अपह्रुतिः ३ अपह्रवः ४ । इति शब्दरत्नावली ॥ (यथा, याज्ञवल्के । २ । ११ । “निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् ॥”) निकृतिः । अविश्वासः । इति मेदिनी । वे, ३९ ॥ (यथा, महाभारते । ५ । ३७ । ३० । “न निह्नवं मन्त्रगतस्य गच्छेत् संसृष्टमन्त्रस्य कुसङ्गतस्य ॥”) गुप्तः । इति शब्दरत्नावली ॥ (शुद्धिः । यथा, मनुः । ९ । २१ । “ध्यायत्यनिष्टं यत् किञ्चित् प्राणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निह्नवः [nihnavḥ], 1 Denial, concealment of knowledge; कार्यः स्वमतिनिह्नवः Māl.1.12; Chandr.5.27.
Secrecy, concealment in general; निह्नवे याचितो दद्याद्धनं राज्ञे च तत्समम् Y.2.11,267.
A secret.
Mistrust; doubt, suspicion.
Wickedness.
Atonement, expiation; तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते Ms.9.21.
Contradiction.
Obscuring, surpassing.
Excuse, exculpation.-Comp. -उत्तरम् an evasive reply. -वादिन् m. a defendant or witness who prevaricates or gives evasive replies.
