सामग्री पर जाएँ

नीकाशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीकाशः, त्रि, (नितरां काशते इति । नि + काश + अच् । “इकः काशे ।” ६ । ३ । १२३ । इति उपसर्गस्य दीर्घः ।) तुल्यः । उपमा । इत्यमरः । २ । १० । ३८ ॥ (यथा, महाभारते । ३ । १८२ । १३ । “आकाशनीकाशतटां तीरवानीरसङ्कुलाम् । बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् ॥”) निश्चये, पुं । इति मेदिनी । शे, २३ ॥

"https://sa.wiktionary.org/w/index.php?title=नीकाशः&oldid=145297" इत्यस्माद् प्रतिप्राप्तम्