सामग्री पर जाएँ

नीचः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीचः, त्रि, (निकृष्टामीं लक्ष्मीं शोभां चिनोतीति । चि + “अन्येभ्योऽपि दृश्यते ।” इति डः ।) हीन- जातिकर्म्मा । वर्व्वरः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । विवर्णः २ पामरः ३ प्राकृतः ४ पृथग्जनः ५ निहीनः ६ अपसदः ७ जाल्मः ८ क्षुल्लकः ९ इतरः १० । इत्यमरः । २ । १० । १६ ॥ अपशदः ११ खुल्लकः १२ । इति भरतः ॥ हीनः १३ क्षुल्लः १४ क्षुण्णः १५ वेतकः १६ । इति शब्दरत्नावली ॥ नीचसङ्गदोषो यथा, -- “न प्राप्नोति सुखं किञ्चिन्नीचसङ्गान्महानपि । प्रेतसङ्गान्महादेवो नग्नो भस्मविभूषितः ॥ प्रविश्य निलयं नीचः स्त्रीधनादिकमिष्यते । स्वयं नेतुं न शक्नोति तदा नाययति ध्रुवम् ॥ स्थिते गुणेऽपि नीचस्तु यत्नाद्दोषं प्रपद्यते । किञ्चित्तु सङ्गमासाद्य तदुक्तं स्यात् सनातनम् ॥ सतां श्रुत्वा गुणं नीचः श्रोतुमायाति बन्धुवत् । ततः समयमासाद्य प्रकाशयति तद्धसन् ॥ मनस्येकं वचस्येकं कर्म्मण्येकं महात्मनाम् । मनस्यन्यद्बचस्यन्यत् कर्म्मण्यन्यद्दुरात्मनाम् ॥” इति पाद्मे क्रियायोगसारे ५ अध्यायः ॥ अपि च । “बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । मध्यमे मध्यतां याति श्रेष्ठतां याति वित्तमे ॥” इति शान्तिपर्व्व ॥ * ॥ अनुच्चः । तत्पर्य्यायः । वामनः २ न्यङ् ३ खर्व्वः ४ ह्रस्वः ५ । इत्यमरः । ३ । १ । ७० ॥ (यथा, -- “नीचरोमनखश्मशुनिर्म्मलाङ्घ्रिमलायनः । स्नानशीलः ससुरभिः सुवेषोऽनुल्वणोज्ज्वलः । धारयेत् सततं रत्नसिद्धमन्त्रमहौषधीः ॥” इति वाभटे सूत्रस्थाने द्वितीयेऽध्याये ॥) निम्नः । यथा, -- “शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किञ्चान्यत् कथयामि ते स्तुतिपदं त्वं जीविनां जीवनं त्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धुं क्षमः ॥” इति लक्ष्मणसेनः ॥ * ॥ चोरकनामगन्धद्रव्ये, पुं । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=नीचः&oldid=145299" इत्यस्माद् प्रतिप्राप्तम्