नीडजेन्द्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीडजेन्द्रः, पुं, (नीडजानां पक्षिणामिन्द्रः ।) गरुडः । यथा, -- “अनडुहि जितनीडजेन्द्रवेगे कृतनिविडासनमुज्झताघपीडे । स्मरशमनतडित्कडारदृष्टिं मृडमुडुराडिव शोभिचूडमीडे ॥” इति प्राचीनशिवस्तुतिः ॥
