नीरदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीरदः, पुं, (नीरं जलं ददातीति । नीर + दा + कः ।) मेघः । यथाह घटकर्परः । “निचितं खमुपेत्य नीरदैः प्रियहीना हृदयाव- नीरदैः ।” मुस्तकम् । इति राजनिर्घण्टः ॥ (निर्नास्ति रदो दन्तो यस्य ।) रदशून्ये, त्रि ॥ यथा, -- “आस्वाद्य निरवशेषं विरहिवधूनां मृदूनि मांसानि । करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि ॥” इत्युद्भटः ॥
