सामग्री पर जाएँ

नीरन्ध्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीरन्ध्रम्, त्रि, (निर्नास्ति रन्ध्रं छिद्रं यस्मिन् ।) घनम् । इति हेमचन्द्रः । ६ । ८३ ॥ (यथा, माघे । ८ । ३ । “नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात् करैस्ताः । पस्पर्श क्षणमलिनाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥”) छिद्ररहितम् । यथा, -- “श्रीमन्नाथ तवार्जितोर्जितयशःसंशुद्धमुक्तावली- मादायैव विधिर्व्विधित्सुरमलं हारं त्वदीयै- र्गुणैः । नीरन्ध्रामवलीक्य तामपि ततो नान्तं गुणाना- महो उत्पित्सुर्गगनान्तरे समकिरत्तास्तास्तत- स्तारकाः ॥” इति कालीदासः ॥

"https://sa.wiktionary.org/w/index.php?title=नीरन्ध्रम्&oldid=145356" इत्यस्माद् प्रतिप्राप्तम्