सामग्री पर जाएँ

नीरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीरम्, क्ली, (नयति प्रापयति स्थानात् स्थानान्तर- मिति । नी प्रापणे + “स्फारितञ्चीति ।” उणां २ । १३ । इति रक् । यद्वा, “अग्नेरापः ।” इति श्रुतेः निर्गतं रादग्नेरिति, “अद्भ्योऽग्नि- र्ब्रह्मणः क्षत्त्रम् ।” इति स्मृतेः निर्गतो रोऽग्नि- र्यस्मादिति वा । “ढ्रलोपे पूर्ब्बस्य दीर्घोऽणः ।” ६ । ३ । १११ । इति रलोपे पूर्ब्बदीर्घः ।) जलम् । इत्यमरः । १ । १० । ४ ॥ (यथा, गीतगोविन्दे । १ । ९ । “छलयसि विक्रमणे वलिमद्भुतवामन पदनखनीरजनितजनपावन । केशव धृतवामनरूप जय जगदीश हरे ॥”) रसः । इत्युणादिकोषः ॥ नीरे अक्षेपणीयानि यथा, गरुडपुराणे । “निष्ठीवासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत् ॥” (अस्य पानविधेयता विधीयते यथा, -- “षाप्युद्भवन्तत् प्रवदन्ति धीरा नीरं समासेन निगद्यतेऽत्र । यत् श्रीमताञ्चैव महायतीनां बलप्रदं पथ्यतरं प्रदिष्टम् ॥” “विण्मूत्रे तृणनीलिका विषयुतं तप्तं घनं फेनिलं दन्तग्राह्यमनार्त्तवं हि सलिलं दुर्गन्धि वै गर्हितम् । नानाजीवविमिश्रितं गुरुतरं वर्णौघपङ्काविल- ञ्चन्द्रार्कांशुसुगोपितं न च पिबेन्नीरं सुदोषा- न्वितम् ॥” इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीरम् [nīram], [Uṇ.2.13]

Water; नीरान्निर्मलतो जनिः Bv. 1.63.

Juice, liquor. -Comp. -चर a. Loitering in water, aquatic; नीरे नीरचरैः समं स भगवान्निद्राति नारायणः Bv. -ज a. aquatic.

(जः) an otter.

a kind of grass (उशीर).

(जम्) a lotus; असि यद्यपि सर्वत्र नीरं नीरजमण्डितम् Udb.

a pearl. -दः a cloud; धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः Bv.1.61; Śi.4.52. नवीननीरदश्यामं रामं राजीवलोचनम् Rāmakavacha. -धरः a. cloud; नवनीलनीर- धरधीरगर्जितक्षणे U.6.17. -धिः, -निधिः the ocean. -प्रियः a kind or reed. -रुहम् a lotus.

"https://sa.wiktionary.org/w/index.php?title=नीरम्&oldid=377047" इत्यस्माद् प्रतिप्राप्तम्