नीरसः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीरसः, पुं, (नितरां रसो यत्र ।) दाडिमः । इति हारावली ॥ (निर्नास्ति रसो यत्र ।) रसशून्ये, त्रि । यथा, -- “शृङ्गारी चेत् कविः काव्ये जातं रसमयं सगत् । स एव चेदशृङ्गारी नीरसं सर्व्वमेव तत् ॥” इति प्राञ्चः ॥
