नीलकण्ठः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीलकण्ठः, पुं, (नीलः नीलवर्णः कण्ठो यस्य ।) शिवः । (यथा, महाभारते । १ । १८ । ४३ -- ४४ । “त्रैलोक्यं मोहितं यस्य गन्धमाध्राय तद्बिषम् । प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः ॥ दधार भगवान् कण्ठे मन्त्रमूर्त्तिर्महेश्वरः । तदा प्रभृति देवस्तु नीलकण्ठ इति श्रुतः ॥”) मयूरः । इत्यमरः । ३ । ३ । ३९ ॥ (यथा, मेघदूते । ७९ । “यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्बः ॥”) पीतसारः । दात्यूहः । ग्रामचटकः । खञ्ज- रीटः । इति हेमचन्द्रः ॥ मूलके, क्ली । इति राजनिर्घण्टः ॥ * ॥ विजयदशम्यां नीलकण्ठ- दर्शनविधिर्यथा, -- “कृत्वा नीराजनं राजा बलवृद्धौ यथाबलम् । शोभनं खञ्जनं पश्येत् जलगोगोष्ठसन्निधौ ॥” दर्शनानन्तरं नमस्कारमन्त्रो यथा, -- “नीलग्रीव शुभग्रीव सर्व्वकामफलप्रद । पृथिव्यामवतीर्णोऽसि खञ्जरीट ! नमोऽस्तु ते ॥ त्वं योगयुक्तो मुनिपुत्त्रकस्त्व- मदृश्यतामेषि शिखोद्गमेन । त्वं दृश्यसे प्रावृषि निर्गतायां त्वं खञ्जनाश्चर्य्यमयो नमस्ते ॥” द्रव्यविशेषोपरिस्थितस्य तस्य दर्शनफलं यथा, -- “अब्जेषु गोषु गजवाजिमहोरगेषु राज्यप्रदः कुशलदः शुचिशाद्वलेषु । भस्मास्थिकेशनखलोमतुषेषु दृष्टो दुःखं ददाति बहुशः खलु खञ्जरीटः ॥” दिग्विशेषे फलं यथा, -- “वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयं याम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये । वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने ॥” अशुभखञ्जनदर्शनप्रायश्चित्तं यथा, -- “अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणपूजनम् । दानं कुर्व्वीत कुर्य्याच्च स्नानं सर्व्वौषधीजलैः ॥” इति तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम् ॥ (पीतशालवृक्षः । अस्य पर्य्यायो यथा, -- “नीलकण्ठः पीतशालः पीतकः प्रियकोऽसनः ॥” इति वैद्यकरत्नमालायाम् ॥)
