सामग्री पर जाएँ

नीलङ्गुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीलङ्गुः, पुं, (निलङ्गति गच्छतीति । नि + लगि गतौ + “खरुशङ्कुपीयुनीलङ्गुलिगु ।” उणां । १ । ३७ । इति कुप्रत्ययेन निपातनात् पूर्ब्बदीर्घे साधुः ।) अतिक्षुद्रजन्तुमात्रम् । इत्यमरटीकायां भरतः ॥ क्रिमिभेदः । शृगालः । इति सिद्धान्त कौमुद्यामुणादिवृत्तिः ॥ (भ्रमराली । प्रसूनम् । इति विश्वः । गे, ५० ॥)

"https://sa.wiktionary.org/w/index.php?title=नीलङ्गुः&oldid=145399" इत्यस्माद् प्रतिप्राप्तम्