नीलदूर्व्वा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीलदूर्व्वा, स्त्री, (नीला दूर्व्वा ।) हरितदूर्व्वा । तत्पर्य्यायः । हरिता २ शाम्भवी ३ श्यामा ४ शीता ५ शतपर्व्विका ६ अमृता ७ पूता ८ शतग्रन्थिः ९ अनुष्णवल्लिका १० शिवा ११ शिवेष्टा १२ मङ्गला १३ जया १४ सुभगा १५ भूत- हन्त्री १६ शतमूला १७ महौषधी १८ विजया १९ गौरी २० शान्ता २१ ॥ (यथा निघण्टौ धन्व- न्तरिः । “नीलदूर्व्वा स्मृता शस्यं शाद्बलं हरितं तथा । शतपर्व्वा शीतकुम्बी शीतला वामनी तथा ॥”) तस्या गुणाः । हिमत्वम् । तिक्तत्वम् । मधु- रत्वम् । तुवरत्वम् । लघुत्वम् । रक्तपित्ताति- सारकफवान्तिज्वरनाशित्वञ्च । पुस्तकान्तरे रोचनत्वम् । वातापहत्वञ्च । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायान्तरं गुणान्तरञ्च यथा, -- “नीलदूर्व्वारुहानन्ता भार्गवी शतपर्व्विका । शष्पं सहस्रवीर्य्या च शतवल्ली च कीर्त्तिता नीलदूर्व्वा हिमा तिक्ता मधुरा तुवरा हरेत् । कफपित्तास्रवीसर्पतृष्णादाहत्वगामयान् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
