नीलध्वजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीलध्वजः, पुं, (नीलः नीलवर्णः ध्वज इव ।) तमालवृक्षः । इति राजनिर्घण्टः ॥ (नीलो ध्वजो यस्य ।) राजविशेषः । अस्य पुरी माहि- ष्मती । भार्य्याज्वाला । कन्या स्वाहा लक्ष्मी- शापाज्जाता । “अर्ज्जुनस्य हयो राजन् ! पुरीं माहिष्मतीं ययौ । नीलध्वजेन वीरेण रक्षितां दुर्गमण्डिताम् ॥ नीलध्वजस्य महिषी ज्वालानाम्नी सुमध्यमा । स्वाहां कन्यां प्रसूता सा सुन्दरीं धर्म्मतत्परा ॥” इति जैमिनिभारते आश्वमेधिके पर्व्वणि १५ अध्यायः ॥ नीलध्वजाविशेष्टे, त्रि ॥
