नीलभृङ्गराजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीलभृङ्गराजः, पुं, (नीलो भृङ्गराजः ।) नील- वर्णभृङ्गराजः । नीलकेशरिया इति नील- भेगरिया इति च भाषा । तत्पर्य्यायः । महा- भृङ्गः २ महानीलः ३ सुनीलकः ४ नीलपुष्पः ५ श्यामलः ६ । अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । चक्षुष्यत्वम् । केशरञ्जनत्वम् । कफा- मशोफश्वित्रनाशित्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥
