नीललोहितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीललोहितः, पुं, (नीलश्चासौ लोहितश्चेति । “वर्णो वर्णेन ।” २ । १ । ६९ । इति समासः । नीलः कण्ठे लोहितश्च केशेष्विति स्वामी ।) शिवः । इत्यमरः । १ । १ । ३५ ॥ (यथा, कुमारे । २ । ५७ । “संयुगे सांयुगीनं तमुद्यन्तं प्रसहेत कः । अंशादृते निषिक्तस्य नीललोहितरेतसः ॥”) चैत्रे मासि तस्य व्रतविधानं यथा, -- “चैत्रे शिवोत्सवं कुर्य्यान्नृत्यगीतमहोत्सवैः । स्नात्वा त्रिसन्ध्यं रात्रौ च हविष्याशी जितेन्द्रियः ॥ किमलभ्यं भगवति प्रसन्ने नीललोहिते । उपोष्य हुत्वा संक्रान्त्यां व्रतमेतत् समर्पयेत् ॥” इति मासकृत्ये बृहद्धर्म्मपुराणम् ॥ कल्पविशेषः । इति महाभारतम् ॥ अस्य विव- रणं कल्पशब्दे द्रष्टव्यम् ॥) नीलरक्तमिश्रितवर्णश्च ॥
