सामग्री पर जाएँ

नीलाञ्जनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीलाञ्जनम्, क्ली, (नीलमञ्जनम् ।) सौवीराञ्जनम् । (यथा, नवग्रहस्तोत्रे शनैश्चरप्रणाममन्त्रम् । “नीलाञ्जनचयप्रख्यं रविसूनुं महाग्रहम् । छायाया गर्भसग्भूतं वन्दे भक्त्या शनैश्चरम् ॥”) तत्तु उपधातुविशेषः । तस्य गुणाः । कटुत्वम् । श्लेष्ममुखरोगनेत्ररोगव्रणदाहनाशित्वम् । उष्ण- त्वम् । रसायनत्वम् । तिक्तत्वम् । भेदकत्वञ्च । इति राजवल्लभः ॥ (अस्य शोधनविधिर्यथा, -- “नीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् । दिनैकमातपे शुद्धं भवेत् कार्य्येषु योजयेत् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥) तुत्थम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=नीलाञ्जनम्&oldid=145479" इत्यस्माद् प्रतिप्राप्तम्