नीलापराजिता
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीलापराजिता, स्त्री, (नीला अपराजिता ।) नीलवर्णापराजितालता । तत्पर्य्यायः । नील- पुष्पी २ महानीली ३ नीलगिरिकर्णिका ४ गवा- दनी ५ व्यक्तगन्धा ६ नीलसन्ध्या ७ नीलाद्रिकर्णी ८ । अस्या गुणाः । शिशिरत्वम् । तिक्तत्वम् । रक्तातिसारज्वरदाहच्छर्द्युन्मादमदश्रमार्त्तिश्वा- सातिकासामयनाशित्वञ्च । इति राजनिर्घण्टः ॥
