सामग्री पर जाएँ

नीलिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीलिका, स्त्री, (नीलक + टाप् । कापि अत इत्वम् । नीलीव इवार्थे कन् टाप् पूर्ब्बह्रस्वः । इति केचित् ।) नीलसिन्दुवारः । इति राज- निर्घण्टः ॥ नीलिनी । (पर्य्यायोऽस्या यथा, -- “नीली तु नीलिनी तूली कालदोला च नीलिका । रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥ क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) शेफालिका । इति मेदिनी । के, १११ ॥ नेत्र- रोगविशेषः । यथा, -- “दोषे दृष्ट्याश्रिते तिर्य्यगेकं वै मन्यंते द्बिधा । तिमिराख्यः स वै दोषश्चतुर्थपटलं गतः ॥ रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाशमतः परम् । अस्मिन्नपि तमोभूते नातिरूढे महागदे ॥ चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः । निर्म्मतानि च तेजांसि भ्राजिष्णूनि च पश्यति । स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः ॥” क्षुद्ररोगभेदः । यथा, -- “क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागत्य सहसा मण्डलं विसृजत्यतः ॥ नीरुजं तनुकं श्यावं तं व्यङ्गमिति निर्द्दिशेत् । कृष्णमेवं गुणं गात्रे मुखे वा नीलिकां विदुः ॥” इति माधवकरः ॥ जलस्य ज्वरः । यथा, “भूमेरूषरा वृक्षस्य कोटरः जलस्य नीलिका इत्यादि ।” इति ज्वरप्रकरणे विजयरक्षितः ॥ क्षुद्ररोगविशेषः । तल्लक्षणं यथा, -- “कृष्णमेवं गुणं वक्त्रे गात्रे वा नीलिकां विदुः ।” एवं गुणं नीरुजं तनुकं मण्डलम् ॥ तच्चिकित्सा यथा, -- “शिरावेधैः प्रलेपैश्च तथाभ्यङ्गैरुपाचरेत् । व्यङ्गञ्च नीलिकां वापि न्यच्छञ्च तिलकालकम् ॥ वटाङ्कुरा मसूराश्च प्रलेपाद्व्यङ्गनाशनाः । व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ॥ अथवा लेपनं शस्तं शशस्य रुधिरेण च । व्यङ्गहृद्वरुणत्वक् स्यादजामूत्रेण पेषिता ॥ जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम् । अर्कक्षीरहरिद्राभ्यां मर्द्दयित्वा प्रलेपनात् ॥ मुखकार्ष्ण्यं समं याति चिरकालोद्भवं ध्रुवम् । मसूरैः क्षीरसंपिष्टैर्लिप्तमास्यं घृतान्वितैः ॥ सप्तरात्रात् भवेत् सत्यं पुण्डरीकदलोपमम् । वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् ॥ कुष्ठं कालीयकं लोध्रमेभिर्लेपं प्रयोजयेत् ॥ युवानपिडकानान्तु व्यङ्गानाञ्च विनाशनम् । स्यादेतेन मुखञ्चापि वर्जितं नीलिकादिभिः ॥ कालीयकं कलम्बक इति लोके । युवानपिडका युवाननं तत्र पिडका पृषोदरादित्वान्नकारलोपः । कुङ्कुमं चन्दनं लोध्रं पत्तङ्गं रक्तचन्दनम् । कालीयकमुशीरञ्च मञ्जिष्ठा मधुयष्टिका ॥ पत्रकं पद्मकं कुष्ठं पद्मं गोरोचना निशा । लाक्षा दारुहरिद्रा च गैरिकं नागकेशरम् ॥ पलाशकुसुमञ्चापि प्रियङ्गुश्च वटाङ्कुराः । मालती च मधूच्छिष्टं सर्षपाः सुरभिर्व्वचा ॥ चतुर्गुणपयःपिष्टैरेतैरक्षमितैः पृथक् । पचेन्मन्दाग्निना वैद्यस्तैलं प्रस्थद्बयोन्मितम् ॥ वदनाभ्यञ्जनादेतद्व्यङ्गं नीलिकया सह । तिलकं माषकं न्यच्छं नाशयेन्मुखदूषिकाम् ॥ पद्मिनीकण्टकं वापि हरेज्जतुमणिं तथा । विदध्याद्बदनं पूर्णचन्द्रमण्डलसुन्दरम् ॥ पत्तङ्गं वकम् इति लोके । कालीयकं कलम्ब इति लोके । सुरभिर्व्वचा महाभरी इति लोके । कुङ्कुमाद्यं तैलम् ।” इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीलिका स्त्री।

कृष्णनिर्गुण्डी

समानार्थक:शेफालिका,सुवहा,निर्गुण्डी,नीलिका

2।4।70।2।4

भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा। शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीलिका¦ स्त्री नीली इवार्थे क नील--ण्वुल् क कापि अनइत्त्वं वा।

१ नीलसिन्धुवारे राजनि॰

२ नीलिन्यां

३ नीलशेफालिकायां मेदि॰।

४ नेत्ररोगभेदे
“स एव लिङ्ग-नाशश्च नीलिकाकाचसंज्ञितः” सुश्रुतः।

५ क्षुद्ररोगभेदे
“क्रोधाय संप्रकुपितो वायुः पित्तेन संयुतः।{??}॰मागत्य सहसा मण्डलं विसृमत्यतः। नीरुजं हनुकंश्यावं तं व्यङ्गमिति निर्दिशेत्। कृष्णमेवंगुणं गात्रे पुष्पेवा नीलिका विदुः” माधवकरः। जलस्य

६ ज्वरविशेषे
“भूमेरुषरा वृक्षस्य कोटरः जलस्य नीलिका” इत्यादि।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीलिका(नी)¦ f. (-का) A plant, (Nyctanthes tristis;) a species with blue flowers.
2. The indigo plant.
3. A slight malady; black and blue marks in the body from bruises, &c. कन् added to नीली।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीलिका [nīlikā], 1 The indigo plant.

Moss (शैवाल); अपां तु नीलिकां विद्यात् Mb.12.283.52. See नीला also.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीलिका f. Blyxa Octandra MBh.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Nīlikā  : f.: Name of a river.

Mentioned in the Daivata-Ṛṣi-Vaṁśa 13. 151. 22, 2.

_______________________________
*1st word in right half of page p376_mci (+offset) in original book.

Mahabharata Cultural Index

"https://sa.wiktionary.org/w/index.php?title=नीलिका&oldid=445634" इत्यस्माद् प्रतिप्राप्तम्