नीलीरागः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीलीरागः, पुं, स्थिरप्रेमपुरुषः । तत्पर्यायः । स्थिरसौहृदः २ । इति हेमचन्द्रः । १ । १४० ॥ (नीलीसञ्जातो रागः ।) नीलवर्णः । इति नीलशब्दस्य नानार्थे शब्दरत्नावली ॥ नायक- नायिकयोः पूर्ब्बरागविशेषः । यथा, -- “नीलीकुसुम्भमञ्जिष्ठाः पूर्ब्बरागोऽपि च त्रिधा ।” तल्लक्षणोदाहरणे । “न चातिशोभते यन्नापैति प्रेम मनोगतम् । नीलीरामः स विज्ञेयो यथा श्रीरामसीतयोः ॥” इति साहित्यदर्पणम् ॥
