नीलोत्पलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीलोत्पलम् क्ली, (नीलं नीलवर्णमुत्पलमिति ।) नीलवर्णोत्पलम् । नीलशा~पला इति भाषा । तत्पर्य्यायः । उत्पलकम् २ कुवलयम् ३ इन्दी- वरम् ४ कन्दोत्थम् ५ सौगन्धिकम् ६ सुगन्धम् ७ कुड्मलकम् ८ असितोत्पलम् ९ ॥ (यथा, भागवते । ५ । २४ । १० । “झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलय- कह्लारनीलोत्पललोहितशतपत्रादिवनेषु ॥”) अस्य गुणाः । अतिस्वादुत्वम् । शीतत्वम् । सुरभिलम् । सौख्यकारित्वम् । पाके अत्यन्ततिक्त- त्वम् । रक्तपित्तहरत्वञ्च । इति राजनिर्घण्टः ॥
