सामग्री पर जाएँ

नीहारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीहारः, पुं, (निर्ह्रियते इति । नि + हृ + घञ् । उपसर्गस्य घञीति दीर्घत्वम् ।) घनीभूतशिशि- रम् । तत्पर्य्यायः । अवश्यायः २ तुषारः ३ तुहिनम् ४ हिमम् ५ प्रालेयम् ६ महिका ७ । इत्यमरः । १ । ३ । १८ ॥ खजलम् ८ निशा- जलम् ९ । इति त्रिकाण्डशेषः ॥ निहारः १० मिहिका ११ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । २२८ । २ । “खाण्डवञ्च वनं सर्व्वं पाण्डवो बहुभिः शरैः । प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः ॥”) अस्य गुणः । कफवायुवर्द्धकत्वम् । इति राज- वल्लभः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नीहारः [nīhārḥ], [नि-हृ कर्मणि घञ् दीर्घः]

Fog, mist; नीहारमग्नो दिनपूर्वभागः R.7.6; Y.1.15; Ms.4.113; नीहारधूमार्कानला- निलानाम् Yogagrantha.

Hoar-frost, heavy dew.

Evacuation. -Comp. -करः the moon.

"https://sa.wiktionary.org/w/index.php?title=नीहारः&oldid=378657" इत्यस्माद् प्रतिप्राप्तम्