नूतनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नूतनः, त्रि, (नव एव । “नवस्य नूरादेशो त्नप्त- नपस्वाग्र प्रत्यया वक्तव्याः ।” ५ । ४ । २५ । इत्यस्य वार्त्तिकोक्त्या तनप् नवस्य नूरादेशश्च ।) अपुरा- तनम् । तत्पर्य्यायः । प्रत्यग्रः २ अभिनवः ३ नव्यः ४ नबीनः ५ नवः ६ नूत्नः ७ । इत्यमरः । ३ । १ । ७७ ॥ सद्यस्कः ८ अजीर्णः ९ । इति हेमचन्द्रः । ६ । ८४ ॥ अभ्यग्रः १० प्रतिनवः ११ । इति जटाधरः ॥ (यथा, रघौ । ८ । १५ । “प्रशमस्थितपूर्ब्बपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ॥”)
