नूपुरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नूपुरम्, पुं, क्ली, (नू + क्विप् । नुवि पुरति इति । पुर अग्रगमने + “इगुपधेति ।” ३ । १ । १३५ । इति कः ।) स्वनामख्यातपादभूषणम् । नेपुर इति भाषा । तत्पर्य्यायः । पादाङ्गदम् २ तुला- कोटिः ३ मञ्जीरः ४ हंसकः ५ पादकटकः ६ । इत्यमरः ॥ पदाङ्गदम् ७ । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये । ८२ । २५ । “नूपुरौ विमलौ तद्वद्ग्रैवेयकमनुत्तमम् ॥” “गुणवानपि मौखर्य्यात् पादे लुठति नूपुरः । हारस्तु मूकभावेन कण्टवल्लभतां गतः ॥ इत्युद्भटः ॥)
