नृचक्षाः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृचक्षाः [स्] पुं, (नन् चष्टे भक्ष्यत्वेन पश्यतीति । चक्ष ङ् दर्शने + “सर्व्वधातुभ्योऽसुन्” उणां ४ । १८८ । इत्यसुन् । यद्वा, “चक्षेर्बहुलं शिच्च ।” उणां । ४ । २३२ । इत्यसिः । असनयोश्चेति न ख्याञादेशः ।) राक्षसः । इति हेमचन्द्रः । २ । १०१ ॥ (नॄन् चष्टे पश्यतीति नॄन् शुभा- शुभकर्त्तॄन् चष्टे पश्यति जानातीत्यर्थः । देवः । यथा, ऋग्वेदे । १० । १०७ । ४ । “शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभिचक्षते हविः ॥” “नृचक्षसः नॄणां द्रष्टॄनन्यानिन्द्रादीन् देवांश्च ।” इति भाष्यकृत्सायनः ॥ नॄणां कर्म्मणेतॄणा- मध्वर्यादीनामुपद्रष्टा । यथा, ऋग्वेदे । ३ । ५३ । ९ । “अस्तभ्नात् सिन्धुमर्णवं नृचक्षाः ॥”)
