नृपतिवल्लभ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृपतिवल्लभः, पुं, (नृपतीनां वल्लभः प्रियः ।) औषधविशेषः । नृपवल्लभ इति ख्यातः । यथा, “जातीफलं लवङ्गाब्दत्वगेलाटङ्गरामठम् । जीरकञ्च यमानी च विश्वसैन्धवपत्रकम् ॥ लौहमभ्रं रसं गन्धं ताम्रं प्रत्येकशः पलम् । मरिचं त्रिपलं दत्त्वा छागीदुग्धेन पेषयेत् ॥ धात्रीरसेन वा पिष्ट्वा वटिकां कुरु यत्नतः । श्रीमद्गहननाथेन विचिन्त्य परिनिर्म्मितः ॥ सूर्य्यवत्तेजसा चायं रसो नृपतिवल्लभः । अष्टाद्दशवटीं खादेत् पवित्रः सूर्य्यदर्शकः ॥ हन्ति मन्दानलं सर्व्वमामदोषं विसूचिकाम् । प्लीहगुल्मोदराष्ठीलायकृत्पाण्डुहलीमकम् ॥ हृत्शूलं कण्ठशूलञ्च चक्षुःशूलञ्च कामलाम् । शिरःशूलं कटीशूलमानाहमोष्ठशूलकम् ॥ कासश्वासामवातञ्च श्लीपदं शोथमर्व्वुदम् । गलगण्डं गण्डमालामम्लपित्तञ्च गर्द्दभीम् ॥ क्रिमिकुष्ठानि दद्रूणि वातरक्तं भगन्दरम् । उपदंशमतीसारं ग्रहण्यर्शःप्रमेहकम् ॥ अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातमसृग्दरम् । ज्वरं जीर्णज्वरं कण्डुं तन्द्रालस्यं वमिं भ्रमिम् ॥ दाहविद्रधिहिक्काश्च जडगद्गदमूकताः । वाधिर्य्यं स्वरभेदञ्च वृध्नवृद्धिविसर्पकान् ॥ ऊरुस्तम्भं रक्तपित्तं गुदभ्रंशारुचिं तृषाम् । कर्णनासानुशोथांश्च दन्तरोगञ्च पीनसम् ॥ स्थौल्यञ्च शीतपित्तञ्च स्थावराणि विषाणि च । वातपित्तकफोत्थांश्च द्वन्द्बजान् सान्निपाति- कान् ॥ सर्व्वरोगचयान् हन्ति चण्डांशुरिव पापहा । बलवर्णकरो ह्येष आयुष्यो वीर्य्यवर्द्धनः ॥ परं वाजीकरः श्रेष्ठः पटुतामन्त्रसिद्धिदः । अरोगीदीर्घजीवी स्यात् रोगी रोगं विमुञ्चति । रसस्यास्य प्रसादेन सुबुद्धिर्जायते नरः ॥” इति रत्नावली ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृपतिवल्लभ¦ पु॰
६ त॰।
१ वटिकात्मके औषधभेदे
“जाती-फलं लवङ्गाब्दत्वगेलाटङ्गरामठम्। जीरकञ्च यवानीच विश्वासौन्धवपत्रकम्। लौहमभ्रं रसं गन्धं ताम्रंप्रत्ये कशः पलम्। मरिचं त्रिपलं दत्त्या छागोदुग्धेनपेषयेत्। धात्रीरसेन वा पिष्ट्वा वटिकां कुरु यत्नतः। श्रीमद्गगननाथेन विचिन्त्य परिनिर्सितः। सूर्य्यवत्ते-जसा चायं रसो नृप{??}वल्लभः। अष्टादशवटीं खादेत्पवित्रः सूर्य्यदर्शकः। हन्ति मन्दानलं सर्वभामदोषं वि-सूचिकाम्। प्लीहगुल्मोदराष्ठीला यकृत् पाण्डुहली-[Page4140-b+ 38] सकम्। हृच्छूलं कण्ठशूलञ्च चक्षुःशूलञ्च कामलाम्। शिरःशूलं कटीशूलमानाहमोष्ठशूलकम्। कासश्वासाम-वातञ्च श्लीपदं शोथमर्बुदम्। गलगण्डं गण्डमाला-मम्लपित्तञ्च गर्दभीम्। क्रिमिकुष्ठानि दद्रूणि वातरक्तंभगन्दरम्। उपदंशमतीसारं ग्रहण्यर्शःप्रमेहकम्। अश्मरीं मूत्रकृच्छ्रञ्च मूत्राधातमसृग्दरम्। ज्वरं जीर्ण-ज्वरं कण्डूं तन्द्रालस्यं वमिं भ्रमिम्। दाहविद्रधिहिक्काश्च जडगद्गदमूकताः। बाधिर्य्यं स्वरभेदञ्च मुष्क-वृद्धिविसर्प्रकान्। उरुस्तम्भं रक्तपित्तं गुदभ्रंशारुचिंतृषाम्। कर्णनासानुशोथांश्च दन्तरोगञ्च पीनसम्। स्थौल्यञ्च शीतपित्तञ्च स्थावराणि विषाणि च। वात-पित्तकफोत्थांश्च द्वन्धजान् सान्निपातिकान्। सर्वरोगचयान्हन्ति चण्डांशुरिव पापहा। बलवर्णकरो ह्येष आ-युष्यो वीर्य्यवर्द्धनः। परं वाजीकरः श्रेष्ठः पटुतामन्त्रसिद्धिदः। अरोगी दीर्घजीवी स्यात् रोगी रोगं विमु-{??}ति। रसस्यास्य प्रसादेन सुबुद्धिर्जायते नरः” भैमज्य-रत्नावली।
२ राज्ञां प्रिये त्रि॰
३ राजपत्न्यां स्त्रीनृप{??}भादयोऽप्यत्र।
