नृपसभ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृपसभम्, क्ली, (नृपाणां सभा । “सभा राजा- मनुष्यपूर्ब्बा ।” २ । ४ । २३ । इति क्लीवत्वम् ।) नृपाणां शाला संहतिर्व्वा । इत्यमरभरतौ ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृपसभ(भा)¦ न॰ स्त्री नृपाणां सभा
“राजामनुष्यपूर्य्येति” पा॰ राजपर्य्यायग्रहणात् क्रीवत्वम्। बहूनां नृपाणांसभायाम्। एकस्य सभायां तु स्त्री। तत्सभाप्रकारश्चऔशनसनीतिपरिशिष्टे
१ अ॰ उक्तो यथा
“राज्ञा राजसभा कार्य्या सुगुप्ता च मनोरमा। त्रि-कौष्ठैः पञ्चकीष्ठैर्वा सप्तकोष्ठैः सुविस्तृता। दक्षिणोदक्तथा दीर्धा प्राक प्रत्यग द्विगुणाऽथ वा। त्रिगुणा वायथाकाममेकभूमिर्द्विभूमिका। त्रिभूमिका वा कर्त्तव्यासोपकार्य्याशिरोगृहा। परितः परिकोष्ठेषु वातायनविरास्त्रिता। पार्श्वकोष्ठात्तु द्विगुणा मध्यकोष्ठेषु वि-स्तृता। पञ्चमांशाधिकं त्वौच्च्यं मध्यकोष्ठस्य विस्तरात्। विस्तारेण समं त्वौच्चत्रं पञ्चमांशाधिकं तु वा। कोष्ठ-कानां च भूमिं च यदि वा तत्र कारयेत्। द्विभूमिकेपार्श्वकोष्ठे मध्यमं त्वेकभूमिकम्। पृथक्स्तम्भा तु सत्कोष्ठा चतुर्मार्गानमा शुभा। जलोद्वारादियन्त्रैश्च युतासुखरयन्त्रकैः। वातप्रेरकयन्त्रैश्च यन्त्रौ कालप्रयो-धकैः। प्रतिष्टिता च सादर्शैस्तथा च प्रतिरूपकैः। एवंविधा राजसभा यन्त्रार्था कार्यदर्शने। तथाविधा-मात्यसेख्यश्चभ्याधिकृतशालिकाः। कर्चव्याः प्रागुदक्चितास्तदर्थाश्च पृथक् वृषक्। शतहस्तमिर्ता भूमिं[Page4142-a+ 38] त्यक्ता राजगृहात् सदा। उदक् द्विशतहस्ता प्राक् सेनासन्निवेशनार्थिका। आराद्राजगृहस्यैव प्रजानां निल-यानि च। सधनिश्रेष्ठिकाननुक्रभतश्च सदा ततः। सम-न्ताच्च चतुर्दिक्षु विन्यसेच्च ततःपरम्। प्रकृत्यनुप्रकृतयोह्याधिकारिगणस्ततः। सेनाधिपपदातीनां गणः सादिगणस्ततः। साश्वश्च सगजश्चापि गजपालगणस्ततः। वृहन्नालिकयन्त्राणि ततः सत्वरगोगणः। ततः खगो-ल्मिकगणो ह्यारण्यकगणस्ततः। क्रमादेषां गृहाणिस्युः शोभनानि परे सदा। पान्थशाला ततः कार्य्यासुगुप्ता सजलाशया। सजातीयगृहाणां च समुदायेनपङ्क्तितः। निवेशने पुरे ग्रामे प्रागुदक् सुखमेधते। सजातिपण्यनिवहैरापणे पण्यवेशनम्। धनिकादिक्रमे-णैव राजमार्गस्य पार्श्वतः। एवं हि पत्तनं कुर्य्यात् प्रभंचैव नराधिपः”। तदधिवेशनप्रकारः तत्रैव
“सभायांप्रत्यगर्द्धस्य मध्ये राजासनं भवेत्। दक्षसंस्था वाम-संस्थाः विशेयुः पार्श्वपृष्ठगाः। पुत्राः पौत्राः भ्रातरश्चभागिनेयाश्च पृष्ठतः। दौहित्रा दक्षभागास्तु वामसं-स्थाः क्रमादिमे। पितृव्याः स्वकुलश्रेष्ठाः सभ्याः सेनाधि-पास्तया। स्वाग्रे दक्षिणभागे तु प्राक्संस्थाः पृथना-सनाः। मातामहकुलश्रेष्ठा मन्त्रिणो कान्धवास्तथा। श्वशुराश्चैव श्यालाश्च वामाशे चाधिकारिणः। वाम-दक्षिणपार्श्वस्थो जामाता भगिनीपतिः। स्वसदृशस-मीपे वा स्वार्द्धासनगतः सुहृत्। दौहित्रभागिनेयानांस्थाने स्युर्दत्तकादयः। भागिनेयाश्च दौहित्राःपुत्रादिस्थानसंस्थिताः। यथा पिता तथार्चायां समःश्रेष्ठासने स्थितः। पार्श्वयोरग्रतः सर्वे सेवका मन्त्रिण-स्तथा। परिवारगणाः सर्वेः सर्वेभ्यः पृष्ठसंस्थिताः। स्वर्णदण्डघरौ स्यातां प्रवेशननिवेदकौ। विशिष्टचिह्नधृक्राजा स्वासने प्रवसेत् स्वके। सुभूषणः सुवसनः कवचीमुकुटान्वितः। स्निग्धास्त्रलग्नशस्त्रस्तु सावधानःमनाः सदा”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृपसभ(भा)¦ n. (-भं)
1. An assembly of princes.
2. A palace. E. नृप a king, and सभा an assembly.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृपसभ/ नृ-प--सभ n. an assembly of princes or a royal palace L.
