नृसिंहः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृसिंहः, पुं, (ना चासौ सिंहश्चेति । नरसिंह- मूर्त्तिधरत्वादेवास्य तथात्वम् ।) विष्णुः । इति त्रिकाण्डशेषः ॥ विष्णोर्दशावताराणां मध्ये चतुर्थः पूर्णावतारः । तस्य रूपं यथा, -- “सिंहस्य कृत्वा वदनं मुरारिः सदा करालञ्च सुरक्तनेत्रम् । अर्द्धं वपुर्व्वै मनुजस्य कृत्वा ययौ सभां दैत्यपतेः पुरस्तात् ॥” इत्यग्निपुराणम् ॥ महाविष्णुः । तन्मन्त्रादि यथा, -- अथ नृसिंहमन्त्राः । निबन्धे । “उग्रं वीरं वदेत् पूर्ब्बं महाविष्णुमनन्तरम् । ज्वलन्तं पदमाभाष्य सर्व्वतोमुखमीरयेत् ॥ नृसिंहं भीषणं भद्रं मृत्युमृत्युं वदेत्ततः । नमाम्यहमिति प्रोक्तो मन्त्रराजसुरद्रुमः ॥ अयं मन्त्रो मायापुटितोऽपि भवति तदा सर्व्व- फलप्रदः । तथा च निबन्धे । “हृल्लेखापुटितश्चेत् स्यात् सर्व्वकामफलप्रदः ।” अस्य पूजा प्रातःकृत्यादिवैष्णवोक्तपीठमन्वन्तं विधाय ऋष्यादिन्यासं कुर्य्यात् । शिरसि ब्रह्मणे ऋषये नमः । मुखेऽनुष्टुप्छन्दसे नमः । हृदि नृसिंहाय देवतायै नमः ॥ ततः कराङ्गन्यासौ । “चतुर्भिर्हृदयं वर्णैः शिरस्तावद्भिरक्षरैः । शिखाष्टाभिःसमुद्दिष्टा षड्भिः कवचमीरितम् ॥ तावद्भिर्नयनं प्रोक्तं अस्त्रं स्यात् करणाक्षरैः ॥” ततो मन्त्रन्यासः । “शिरोललाटनेत्रेषु मुखबाह्वङ्घ्रिसन्धिषु । साग्रेषु कुक्षौ हृदये गले पार्श्वद्वये पुनः ॥ अपराङ्गे च ककुदि न्यसेद्बर्णान् यथाक्रमम् ॥” ध्यानन्तु । “माणिक्त्याद्रिसमप्रभं निजरुचा संत्रस्तरक्षोगणं जानुन्यस्तकराम्बुजं त्रिनयनं रत्नोल्लसद्भूषणम् । बाहुभ्यां धृतशङ्खचक्रमनिशं दंष्ट्वोग्रवक्त्रोल्लसज्- ज्वालाजिह्वमुदारकेशरचयं वन्दे नृसिंहं विभुम् ॥ एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कृत्वा वैष्णवोक्तपीठपूजां कृत्वा पुनर्ध्यात्वावाहनादि- पञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजा- मारभेत । केशरेष्वग्न्यादिकोणेषु मध्ये दिक्षु च अङ्गानि पूजयेत् । यथा उग्रं वीरं हृदयाय नमः । महाविष्णुं शिरसे स्वाहा । ज्वलन्तं सर्व्वतोमुखं शिखायै वषट् । नृसिंहं भीषणं कवचाय हूं । भद्रं मृत्युमृत्युं नेत्रत्रयाय वौषट् । नमाम्यहं अस्त्राय फट् । ततः पूर्ब्बादि- दलेषु गरुडं शङ्करं शेषं ब्रह्माणञ्च प्रपूजयेत् । विदिग्दलेषु श्रियं ह्रियं धृतिं पुष्टिञ्च प्रण- वादिनमोऽन्तेन पूजयेत् । तद्बहिः इन्द्रादीन् वज्रादींश्च संपूज्य धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं द्बात्रिंशल्लक्ष- जपः । तथा च । वसुलक्षं जपेन्मन्त्रमित्यादिवचनात् ।” इति तन्त्र- सारः ॥ * ॥ षोडशरतिबन्धान्तर्गतनवमबन्धः । तस्य लक्षणं यथा, रतिमञ्जर्य्याम् । “पादौ संपीड्य योनौ च हठाल्लिङ्गप्रवेशनम् । हस्तयोर्वेष्टयेद्गात्रं बन्धो नृसिंहसंज्ञकः ॥” (स्वनामख्यातनृपविशेषः । यथा, सह्याद्रिखण्डे । ३१ । ४० । “नागात् नृसिंहभूपालस्तत्सुतो गाढभाषणः ॥” ना सिंह इव इत्युपमितसमासः ।) नरश्रेष्ठः ॥ (यथा, महाभारते । ९ । ५३ । २४ । “इष्ट्वा महार्हैः क्रतुभिर्नृसिंहाः सन्त्यज्य देहान् सुगतिं प्रपन्नाः ॥”)
