सामग्री पर जाएँ

नृसिंहचतुर्द्दशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नृसिंहचतुर्द्दशी, स्त्री, (नृसिंहप्रिया नृसिंहव्रतोप- लक्षिता वा चतुर्द्दशी ।) वैशाखशुक्लचतु- र्द्दशी । तत्र व्रतविधिर्यथा, -- “वैशाखस्य चतुर्द्दश्यां शुक्लायां श्रीनृकेशरी । जातस्तदस्यां तत्पूजोत्सवं कुर्व्वीत सव्रतम् ॥” अथ श्रीनृसिंहचतुर्द्दशीव्रतनित्यता । बृहन्नार- सिंहपुराणे श्रीभगवन्नृसिंहप्रह्लादसंवादे व्रत- विधिकथने । “वर्षे वर्षे तु कर्त्तव्यं मम सन्तुष्टिकारणम् । महागुह्यमिदं श्रेष्ठं मानवैर्भवभीरुभिः ॥” किञ्च “विज्ञाय मद्दिनं यस्तु लङ्घयेत् स तु पापभाक् । एवं ज्ञात्वा प्रकर्त्तव्यं मद्दिने व्रतमुत्तमम् । अन्यथा नरकं याति यावच्चन्द्रदिवाकरौ ॥” * ॥ तत्राधिकारिनिर्णयः । तत्रैव । “सर्व्वेषामेव लोकानामधिकारोऽस्ति मद्व्रते । मद्भक्तैस्तु विशेषेण प्रणेयं मत्परायणैः ॥” * ॥ अथ तन्माहात्म्यम् । तत्रैव । श्रीप्रह्लाद उवाच । “नमस्ते भगवन् विष्णो नृसिंहवपुषे नमः । त्वद्भक्तोऽहं मुरेशैकं त्वां पृच्छामि च तत्त्वतः ॥ स्वामिंस्त्वयि ममोत्पन्ना भक्तिर्ब्बहुविधा कथम् । कथं ते सुप्रियो जातः कारणं वद मे प्रभो ! ॥ श्रीनृसिंह उवाच । कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः । भर्क्तेर्यत् कारणं वत्स ! प्रियत्वस्य च तत् पुनः ॥ पुराकल्पे ह्यभूर्व्विप्रः किञ्चित्त्वं नाप्यधीतवान् । नाम्ना च वसुदेवो हि वेश्यायां तत्परो ह्यभूः ॥ तस्मिन् जन्मनि नैव त्वं चकर्थ सुकृतं कियत् । मुक्त्वा तु मद्व्रतं चैकं वेश्यासङ्गतिलालसः ॥ मद्व्रतस्य प्रभावेण भक्तिर्ज्जाता तवेदृशी । श्रीप्रह्लाद उवाच । श्रीनृसिंहाच्युत स्वामिन् कस्य पुत्त्रेण किं कृतम् । वेश्यायां वर्त्तमानेन कथं तद्धि कृतं मया ॥ आख्यानं विस्तरेणेदं वक्तुमर्हसि साम्प्रतम् । श्रीनृसिंह उवाच । पुरावन्तीपुरे ह्यासीद्ब्राह्मणो वेदपारगः । तन्नाम वसुशर्म्मेति सर्व्वलोकेषु विश्रुतम् ॥ नित्यं होमक्रियामेष करोति द्बिजसत्तमः । ब्रह्मक्रियासु सततं सर्व्वासु किल तत्परः ॥ तेनैव कारयेत् पूजां दृष्ट्वा शास्त्रानुसारतः । आचार्य्यवचनाद्धीमान् पूजां कुर्य्याच्चरन् व्रतम् ॥” तत्राग्रे प्रह्लादः पूजनीयः । तथा चागमे । “प्रह्लादक्लेशनाशाय या हि पुण्या चतुर्द्दशी । पूजयेत्तत्र यत्नेन हरेः प्रह्लादमग्रतः ॥” बृहन्नारसिंहे । “मण्डपं कारयेत्तत्र पुष्पस्तवकशोभितम् । ऋतुकालोद्भवैः पुष्पैः पूज्योऽहञ्च यथाविधि ॥ उपचारैः षोडशभिर्म्मन्मन्त्रैर्नामभिस्तथा । ततः पौराणिकैर्म्मन्त्रैः पूजनीयो विशेषतः ॥” तत्र चन्दनमन्त्रः । “चन्दनं शीतलं दिव्यं चन्द्रकुङ्कुममिश्रितम् । ददामि ते प्रतुष्ट्यर्थं नृसिंह परमेश्वरेति ॥” पुष्पमन्त्रः । “कालोद्भवानि पुष्पाणि तुलस्यादीनि वै प्रभो ! । पूजयामि नृसिंहेश ! लक्ष्म्या सह नमोऽस्तु ते ॥” धूपमन्त्रः । “कालागुरुमयं धूपं सर्व्वदेवसुवल्लभम् । करोमि ते महाविष्णो ! सर्व्वकामसमृद्धये ॥” द्वीपमन्त्रः । “दीपः पापहरः प्रोक्तस्तमसां राशिनाशनः । दीपेन लभते तेजस्तस्माद्दीपं ददामि ते ॥” नैवेद्यमन्त्रः । “नैवेद्यं सौख्यदं चास्तु भक्ष्यभोज्यसमन्वितम् । ददामि ते रमाकान्त सर्व्वपापक्षयं कुरु ॥” अर्घमन्त्रः । “नृसिंहाच्युत देवेश लक्ष्मीकान्त जगत्पते । अनेनार्घ्यप्रदानेन सफलाः स्युर्म्मनोरथाः ॥” पूजामन्त्रः । “पीताम्बर महाविष्णो प्रह्लादभयनाशकृत् । यथा भूतार्च्चने नाथ यथोक्तफलदो भवेति ॥ रात्रौ जागरणं कुर्य्यात् गीतवादित्रनर्त्तनैः । पुराणपठनं नृत्यं श्रोतव्यं मत्कथानकम् ॥ ततः प्रभातसमये स्नानं कृत्वा ह्यतन्द्रितः । पूर्ब्बोक्तेन विधानेन पूजयेन्मां प्रयत्नतः ॥” किञ्च । “मद्वंशे ये नरा जाता ये जनिष्यन्ति मत्पुरः । तांस्त्वमुद्धर देवेश ! दुःसहात् भवसागरात् ॥ पातकार्णवमग्नस्य व्याधिदुःखाम्बुराशिभिः । तीव्रैस्तु परिभूतस्य महादुःखगतस्य मे ॥ करावलम्बनं देहि शेषशायिन् जगत्पते । श्रीनृसिंह रमाकान्त भक्तानां भयनाशन ॥ क्षीराम्बुधिनिवास त्वं प्रीयमाणो जनार्द्दन । व्रतेनानेन मे देव भुक्तिमुक्तिप्रदो भव ॥ एवं प्रार्थ्य ततो देवं विसर्ज्ज्य च यथाविधि । उपहारादिकं सर्व्वमाचार्य्याय निवेदयेत् ॥ दक्षिणाभिः सुसन्तोष्य ब्राह्मणांश्च विसर्ज्जयेत् । मम ध्यानसमासक्तो भुञ्जीत सह बन्धुभिरिति ॥” इति श्रीहरिभक्तिविलासे १४ विलासः ॥

"https://sa.wiktionary.org/w/index.php?title=नृसिंहचतुर्द्दशी&oldid=145619" इत्यस्माद् प्रतिप्राप्तम्